विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७८३ पृष्ठानां सङ्ग्रहः विद्यते ।
शुक्रवासरः, डिसेम्बर् २७, २०२४; समयः- ०१:५८ UTC
अनृतात् सत्यमुपैमि ॥ (यजुर्वेदः १-५)
असत्यात् सत्यं प्रति चलामि ।
यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते । विहायाद्यन्तयोर्वर्णौ गोत्वं कुत्र स्थितं वद ॥ स्वर्गं यत् प्रापयति तादृशं किं कार्यं मनुष्यः करोति ? तस्मिन् शब्दे प्रथमम् अन्तिमं च अक्षरं यदि निष्कासयेम तर्हि गोत्वं (धेनोः गुणधर्माः) कुत्र विद्यते ? इत्येतस्य उत्तरं प्राप्येत ।
उत्तरम्
कौपीनं भस्मना लेपो दर्भाः रुद्राक्षमालिका । मौनमेकान्तिता चेति मूर्खसञ्जीवनानि षट् ॥ मूर्खोऽपि सुखेन यदि जीवितुम् इच्छति तर्हि तेन कौपीनं धृत्वा भस्मना शरीरस्य लेपनं करणीयम् । दर्भासने उपविश्य रुद्राक्षमालिका चालनीया हस्तेन । एकान्ते वसता तेन मौनम् अवलम्बनीयम् । एतावत् कृतं चेत् जनाः अहमहमिकया आगत्य प्रणमन्ति, अर्चन्ति, सत्कुर्वन्ति च । अतः मूर्खता अस्ति चेदपि चिन्ता न करणीया । वेषधारणात् जनप्रीतिः प्राप्तुं शक्या निश्चयेन ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh